|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.168. अध्यायः 168
Mahabharata - Vana Parva - Chapter Topics
अर्जुनेन स्वस्य किरातरूपिणा सह युद्धप्रकारस्य पाशुपताश्रलाभप्रकारस्य च कथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशपायन उवाच। 3-168-0x(2308)(22381)
यथागतं गते शक्रे भ्रातृभिः सह संगतः।
कृष्णया चैव बीभत्सुर्धर्मराजमपूजयत् ॥ 3-168-1(22382)
अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम्।
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ॥ 3-168-2(22383)
कथमर्जुन कालोऽयं स्वर्गे रव्यतिगतस्तव।
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ॥ 3-168-3(22384)
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव।
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ॥ 3-168-4(22385)
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृत्।
यथैवास्त्राण्यवाप्तानि यथैवाराधिताश्च ते ॥ 3-168-5(22386)
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम।
कृतप्रियस्त्वयाऽस्मीति तस्य ते किं प्रियं कृतम् ॥ 3-168-6(22387)
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते।
यथा तुष्टो महादेवो देवराजस्तथाऽनघ ॥ 3-168-7(22388)
यच्चापि वज्रपाणेस्तु प्रियं कृतमरिंदम।
एतदाख्याहि मे सर्वमखिलेन धनंजय ॥ 3-168-8(22389)
अर्जुन उवाच। 3-168-9x(2309)
शृणु हन्त महाराज विधिना येन दृष्टवान्।
शतक्रतुमहं देवं भगवन्तं च शंकरम् ॥ 3-168-9(22390)
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन।
भवता च समादिष्टस्तपसे प्रस्थितो वनम् ॥ 3-168-10(22391)
भृगुतुन्दमथो गत्वा काम्यकादास्थितस्तपः।
एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि ॥ 3-168-11(22392)
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे।
तस्मा अवितथं सर्वमब्रवं कुरुनन्दन ॥ 3-168-12(22393)
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम।
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ॥ 3-168-13(22394)
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत।
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिषम् ॥ 3-168-14(22395)
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम्।
तपोऽतप्यं महाराज मासं मूलफलाशनः ॥ 3-168-15(22396)
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः।
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ॥ 3-168-16(22397)
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा।
न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ॥ 3-168-17(22398)
पञ्चमे त्वथ संप्राप्ते प्रथमे दिवसे गते।
वराहसंस्थितं भूतं मत्समीपं समागमत् ॥ 3-168-18(22399)
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि।
संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ॥ 3-168-19(22400)
अनु तस्यापरं भूतं महत्कैरातसंस्थितम्।
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ॥ 3-168-20(22401)
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी।
अताडयं शरेणाथ तद्भूतं रोमहर्षणम् ॥ 3-168-21(22402)
युपत्तं किरातस्तु विकृष्य बलवद्धनुः।
अभ्याजघ्ने दृढतरं कम्पयन्निव मेदिनीम् ॥ 3-168-22(22403)
सतु मामब्रवीद्राजन्मम पूर्वपरिग्रहः।
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ॥ 3-168-23(22404)
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव।
संघर्षवान्महाकायस्ततो मामभ्यधावत ॥ 3-168-24(22405)
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः।
तं चाहं शरवर्षेण महता समवाकिरम् ॥ 3-168-25(22406)
ततः शरैर्दीप्तमुखैर्यन्त्रितैरनु यन्त्रितैः।
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ॥ 3-168-26(22407)
तस्य तच्छतधा रूपमभवच्च सहस्रधा।
तानि चास्य शरीराणि शरैरहमताडयम् ॥ 3-168-27(22408)
पुनस्तानि शरीराणि एकीभूतानि भारत।
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ॥ 3-168-28(22409)
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः।
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ॥ 3-168-29(22410)
यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे।
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ ॥ 3-168-30(22411)
न चैनमशकं हन्तुं तदद्भुतमिवाभवत्।
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ॥ 3-168-31(22412)
तत्रापि च महाराज सविशेषमहं ततः।
अस्त्रपूगेन महता रणे भूतमवाकिरम् ॥ 3-168-32(22413)
स्थूणाकर्णमथो जालं शरवर्षं शरोल्वणम्।
शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम् ॥ 3-168-33(22414)
जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप।
तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम् ॥ 3-168-34(22415)
ततः प्रज्वलितैर्बाणैः सर्वतश्चोपचीयत।
उपचीयमानश्च तदा महास्त्रेण व्यवर्धत ॥ 3-168-35(22416)
ततः संतापिता लोका मत्प्रसूतेन तेजसा।
क्षणएन हि दिशः स्वं च सर्वतो हि विदीपितं ॥ 3-168-36(22417)
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत्।
ब्र्हमास्त्रे तु हते राजन्भयं मां महदाविशत् ॥ 3-168-37(22418)
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी।
सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥ 3-168-38(22419)
एतेष्वस्त्रेषु भूतेन भक्षितेष्वायुधेषु च।
मम तस् च भूतस्य बाहुयुद्धमवर्तत ॥ 3-168-39(22420)
व्यायामं मुष्टिभिः कृत्वा तलैरभिसमाहतौ।
अपायच्च तद्भूतमहं चापातयं महीम् ॥ 3-168-40(22421)
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत।
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ॥ 3-168-41(22422)
मुख्यं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः।
दिव्यमेव महाराज वरानोऽद्भुतमम्बरम् ॥ 3-168-42(22423)
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः।
स्वरूपं दिव्यमास्थाय तस्यौ महेश्वरः ॥ 3-168-43(22424)
सोऽदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः।
धनुर्गृह्यतदा पाणौ बहुरूपः पिनाकधृत् ॥ 3-168-44(22425)
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्।
शूलपाणिरथोवाच तुष्टोस्मीति परंतप ॥ 3-168-45(22426)
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ।
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ॥ 3-168-46(22427)
तुष्टोस्मि तव कौन्तेय ब्रूहि किं करवाणि ते।
मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम्।
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ॥ 3-168-47(22428)
ततः प्राञ्डलिरेवाहमस्त्रेषु कृतमानसः।
प्रणम्य शिरसा शर्वं ततो वचनमाददे ॥ 3-168-48(22429)
भगवानमे प्रसन्नश्चेदीप्सितोऽयं वरो मम।
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ॥ 3-168-49(22430)
ददानीत्येव भगवानब्रवीत्र्यम्बकश्च माम्।
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव ॥ 3-168-50(22431)
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः।
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् ॥ 3-168-51(22432)
न प्रयोज्यंभवेदेतन्मानुषेषु कथंचन।
[जगद्विनिर्दहेदेवमल्पतेजसि पातितम् ॥ 3-168-52(22433)
पीड्यमानन बलवत्प्रयोज्यंस्याद्धनंजय।
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥ 3-168-53(22434)
ततोऽप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्।
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥ 3-168-54(22435)
उत्सादनममित्राणां परसेनानिकर्तनम्।
दुरासदं दुष्प्रसहं सुरदानवराक्षसैः ॥ 3-168-55(22436)
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्।
प्रेक्षतश्चैवमे देवस्तत्रैवान्तरधीयत ॥ 3-168-56(22437)
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-168-2 प्रहृष्टो धर्मपुत्रः ॥ 3-168-9 हन्तेत्यव्ययं वाक्यारम्भे हर्षे वा ॥ 3-168-15 शैशिरं हिममयम् ॥ 3-168-17 प्राणो बलम् ॥ 3-168-18 चतुर्थे मास्यतिक्रान्ते इति ध. पाठः। वराहवत् संस्थितं आकारो यस्य ॥ 3-168-19 प्रोथेन मुखाग्रेण पोत्राख्येन। विवर्तन् विषमेण भावेन वर्तमानः इतस्ततः पर्यटन्वा ॥ 3-168-26 अनुपश्चात् यन्त्रितैः दृढाकृष्टैः ॥ 3-168-33 स्थूणाकर्ण इति शङ्कुकर्णाख्यो रुद्रावतारभेदस्तद्दैवत्यमस्रम्। जालं जलमयं वारुणम्। शैलास्त्रमश्मवर्षं च इति ध. पाठः ॥ 3-168-40 व्यायामं संघटनम् ॥ 3-168-44 गोवृषो बलीवर्दश्रेष्ठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|